|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.12. अध्यायः 012
Mahabharata - Vana Parva - Chapter Topics
श्रीकृष्णेन स्वीयैः सह वने पाण्डवसमीपगमनम् ॥ 1 ॥ अर्जुनेन कृष्णस्तवनम् ॥ 2 ॥ स्वदुखनिवेदनपूर्वकं रुदन्त्या द्रौपद्याः कृष्णेन समाश्वासनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-12-0x(1814)(16101)
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह।
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥ 3-12-1(16102)
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ 3-12-2(16103)
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ 3-12-3(16104)
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्।
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ॥ 3-12-4(16105)
वासुदेव उवाच। 3-12-5x(1815)
दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 3-12-5(16106)
एतान्निहत्य समरे ये च तेषां पदानुगाः।
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ॥ 3-12-6(16107)
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्।
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ॥ 3-12-7(16108)
वैशम्पायन उवाच। 3-12-8x(1816)
पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्।
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ॥ 3-12-8(16109)
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥ 3-12-9(16110)
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ 3-12-10(16111)
अर्जुन उवाच। 3-12-11x(1817)
दशवर्षसहस्राणि यत्रसायंगृहो मुनिः।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ 3-12-11(16112)
दशवर्षसहस्राणि दशवर्षशतानि च।
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ॥ 3-12-12(16113)
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ 3-12-13(16114)
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः।
आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ॥ 3-12-14(16115)
प्रभासभप्यथासाद्य तीर्थं पुण्यजनार्चितम्।
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥ 3-12-15(16116)
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ॥ 3-12-16(16117)
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ 3-12-17(16118)
`योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः।
शीलस्त्वं सर्वयोगानां करणं नियमस्य च' ॥ 3-12-18(16119)
निहत्य नरकं भौममाहृत्य मणिकुण्डले।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ 3-12-19(16120)
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ 3-12-20(16121)
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ 3-12-21(16122)
स त्वं नारायणो भूत्वा हरिरासीः परंतप।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ 3-12-22(16123)
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ 3-12-23(16124)
तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ 3-12-24(16125)
शतं शतसहस्राणि सुवर्णस्य जनार्दन।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ॥ 3-12-25(16126)
अदितेरपि पुत्रत्वमेत्य यादवनन्दन।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ॥ 3-12-26(16127)
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा । 3-12-27(16128)
संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ 3-12-28(16129)
प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ॥ 3-12-29(16130)
सादिता मौखाः पाशा निशुम्भनरकौ हतौ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ 3-12-30(16131)
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ॥ 3-12-31(16132)
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा।
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ॥ 3-12-32(16133)
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्।
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम् 3-12-33(16134)
एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ 3-12-34(16135)
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ 3-12-35(16136)
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ 3-12-36(16137)
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ 3-12-37(16138)
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन।
आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ॥ 3-12-38(16139)
युगादौ तव वार्ष्णेय नाभिपद्मादजायत।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्।
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ॥ 3-12-39(16140)
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः।
ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ॥ 3-12-40(16141)
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ।
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ॥ 3-12-41(16142)
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः।
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ॥ 3-12-42(16143)
नैवं परे नापरे वा करिष्यन्ति कृतानि वा।
यानि कर्माणि देव त्वं बाल एव महाबलः ॥ 3-12-43(16144)
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ 3-12-44(16145)
वैशम्पायन उवाच। 3-12-45x(1818)
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ 3-12-45(16146)
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ 3-12-46(16147)
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्।
काले लोकमिमं प्राप्तौ नरनारायणावृषी ॥ 3-12-47(16148)
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ 3-12-48(16149)
वैशम्पायन उवाच। 3-12-49x(1819)
`इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः।
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ॥' 3-12-49(16150)
एवमुक्ते तु वचने केशेवेन महात्मना।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ॥ 3-12-50(16151)
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ 3-12-51(16152)
द्रौपद्युवाच। 3-12-52x(1820)
`वासुदेव हृषीकेश वासवावरजाच्युत।
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्' ॥ 3-12-52(16153)
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्।
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ॥ 3-12-53(16154)
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन।
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ॥ 3-12-54(16155)
ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम।
सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ॥ 3-12-55(16156)
साध्यानामपि देवानां शिवानामीश्वरेश्वर।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ 3-12-56(16157)
ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ॥ 3-12-57(16158)
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो।
जठरे खमिमे लोकाः पुरुषोसि सनातनः ॥ 3-12-58(16159)
विद्यातपोभितप्तानां तपसा भावितात्मनाम्।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ॥ 3-12-59(16160)
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ।
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ॥ 3-12-60(16161)
लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ 3-12-61(16162)
मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम्।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ 3-12-62(16163)
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ 3-12-63(16164)
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ 3-12-64(16165)
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता।
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ॥ 3-12-65(16166)
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ 3-12-66(16167)
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ॥ 3-12-67(16168)
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ 3-12-68(16169)
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ 3-12-69(16170)
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ 3-12-70(16171)
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ 3-12-71(16172)
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 3-12-72(16173)
आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ 3-12-73(16174)
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ 3-12-74(16175)
पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः।
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ॥ 3-12-75(16176)
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ॥ 3-12-76(16177)
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ 3-12-77(16178)
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ 3-12-78(16179)
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा।
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ॥ 3-12-79(16180)
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ 3-12-80(16181)
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ 3-12-81(16182)
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान्।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ 3-12-82(16183)
भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्।
कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ॥ 3-12-83(16184)
तज्जीर्णमविकारेण सहान्नेन जनार्दन।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ 3-12-84(16185)
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ॥ 3-12-85(16186)
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ 3-12-86(16187)
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ 3-12-87(16188)
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ 3-12-88(16189)
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ 3-12-89(16190)
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्।
महद्व्यसनमापन्ना शिखिना परिवारिता ॥ 3-12-90(16191)
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ 3-12-91(16192)
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ 3-12-92(16193)
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः।
तथैवाभिपतिष्यामि भयंवो नेह विद्यते ॥ 3-12-93(16194)
आर्यामङ्केन वामेन राजानं दक्षिणेन च।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥ 3-12-94(16195)
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ 3-12-95(16196)
ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ॥ 3-12-96(16197)
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ 3-12-97(16198)
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ।
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ॥ 3-12-98(16199)
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥ 3-12-99(16200)
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ॥ 3-12-100(16201)
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी।
भीमसेनं महात्मानमाह चैवमनिन्दिता ॥ 3-12-101(16202)
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ॥ 3-12-102(16203)
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः।
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ॥ 3-12-103(16204)
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ 3-12-104(16205)
राक्षस उवाच। 3-12-105x(1821)
केन सार्धं कथयसि आनयैनं ममान्तिकम्।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ॥ 3-12-105(16206)
सा कृपासंगृहीतेन हृदयेन मनस्विनी।
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ॥ 3-12-106(16207)
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ 3-12-107(16208)
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ 3-12-108(16209)
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ 3-12-109(16210)
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा।
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ॥ 3-12-110(16211)
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ 3-12-111(16212)
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ।
निजघान महावीर्यस्तं तदा निर्बलं बली ॥ 3-12-112(16213)
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ॥ 3-12-113(16214)
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ 3-12-114(16215)
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः।
ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ॥ 3-12-115(16216)
तत्राप्यासादयामासुर्बकं नाम महाबलम्।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥ 3-12-116(16217)
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ 3-12-117(16218)
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना।
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ॥ 3-12-118(16219)
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ॥ 3-12-119(16220)
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ॥ 3-12-120(16221)
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः।
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं। 3-12-121(16222)
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्।
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ॥ 3-12-122(16223)
कुले महतिजाताऽस्मि दिव्येन विधिना किल।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ 3-12-123(16224)
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥ 3-12-124(16225)
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ 3-12-125(16226)
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥ 3-12-126(16227)
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः।
बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ॥ 3-12-127(16228)
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः।
न भ्रातरो न च पिता नैव त्वं मधुसूदन ॥ 3-12-128(16229)
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ 3-12-129(16230)
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ॥ 3-12-130(16231)
वैशम्पायन उवाच। 3-12-131x(1822)
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ॥ 3-12-131(16232)
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्।
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ॥ 3-12-132(16233)
यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ 3-12-133(16234)
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ 3-12-134(16235)
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्।
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ॥ 3-12-135(16236)
आबभाषे महाराज द्रौपदीमर्जुनस्तदा।
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः।
तथा तद्भविता देवि नान्यथा वरवर्णिनि ॥ 3-12-136(16237)
धृष्टद्युम्न उवाच। 3-12-137x(1823)
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्।
दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ॥ 3-12-137(16238)
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ 3-12-138(16239)
वैशम्पायन उवाच। 3-12-139x(1824)
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ 3-12-139(16240)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-12-7 निकृत्या छलेन ॥ 3-12-8 अभिषङ्गेण दुःखेन पराभवेन वा ॥ 3-12-11 यत्र सायंकालस्तत्रैव गृहं यस्य स यत्रसायंगृहः ॥ 3-12-14 उत्तरासङ्ग उत्तरीयवस्त्रम् ॥ 3-12-17 क्षेत्रज्ञः अन्तरात्मेत्य्रथः ॥ 3-12-19 भौमं भूमिपुत्रम्। मेध्यं यज्ञियम् ॥ 3-12-20 तत्कर्म अश्वोत्सर्गाख्यम् ॥ 3-12-28 संप्राप्य सम्यक्व्याप्य। आदित्यस्यन्दने सूर्यदेहे भास्करमण्डलाभिमानिनं जीवम् ॥ 3-12-30 सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः। मुर वेष्टने अस्मादौणादिके उक्रप्रत्यये तद्धितः ॥ 3-12-31 जारूथ्यां नगर्याम् ॥ 3-12-32 सौभं खेचरं पुरम् ॥ 3-12-36 नृशंस्यं निर्दयत्वम् ॥ 3-12-37 चैत्यं आयतनं आध्यात्मिकं हृदयपुण्डरीकं। बाह्यं देवालयादि ॥ 3-12-38 आत्मनैव निमित्तान्तरं विना ॥ 3-12-50 समावाये समूहे। संरब्धेषु कुपितेषु ॥ 3-12-65 स्त्रीधर्मिणी रजस्वला ॥ 3-12-67 ईषुः ऐच्छन् ॥ 3-12-68 स्नुषा वधूः ॥ 3-12-69 धर्मपत्नीं यज्ञसंयोगिनीम् ॥ 3-12-70 विप्रकृतां दुःखंप्रापिताम्। मर्षयेतां क्षमेताम् ॥ 3-12-74 नान्वपद्यन्त नानुगृहीतवन्तः ॥ 3-12-78 राष्ट्राणमपराधम्। दुर्बलीयसां दुर्बलतराणाम् ॥ 3-12-80 अधिज्यमारोपितगुणम् ॥ 3-12-84 सशेषत्वात्। आयुष इति शेषः ॥ 3-12-85 प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ॥ 3-12-88 अपोथयत् प्रहृतवान्। अपहस्तेन हस्तपृष्ठेन ॥ 3-12-89 उपाधाक्षीत् दाहार्थं उपहृतवान्। आर्या श्वश्रूः ॥ 3-12-93 वैनतेयः विनतापुत्रः ॥ 3-12-106 कृपासंगृहीतेन श्नेहवशेन ॥ 3-12-109 संहृत्य मुष्टीकृत्य ॥ 3-12-119 एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः। निवसामार्यया हीनाः कृष्ण धौम्यपुरस्सरा इति क. ट. द. पाठः ॥ 3-12-129 विशोकवद्विशोका इव ॥ 3-12-130 संबन्धात् पितृष्वस्रीयभार्यात्वात्। गौरवादग्निकुण्डोद्भवत्वात्। सख्यात् भक्तिमत्त्वात्। प्रभुत्वेन सामर्थ्यवत्त्वेन त्वदीयेन ॥ 3-12-138 स्वसः हे भगिनि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|